हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Bala Tripura Sundari Shodasopachara Puja – श्री बालात्रिपुरसुन्दरि षोडशोपचार पूजा
पूर्वाङ्गं
पश्यतु ॥
हरिद्रा गणपति पूजा
पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री बाला त्रिपुरसुन्दरी देवतामुद्दिश्य श्री बाला त्रिपुरसुन्दरी देवता प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भविता प्रकारेण श्रीसूक्त प्रकारेण यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहिता भव स्थापिता भव ।
सुप्रसन्नो भव वरदा भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ।
देवि सर्वजगन्नाथे यावत्पूजावसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
ध्यानम् –
ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कला बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौताङ्गरङ्गोज्ज्वलाम् ।
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः ध्यायामि ।
आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
सर्वमङ्गलमाङ्गल्ये भक्ताभीष्टप्रदायिनि ।
आवाहयामि देवि त्वां सुप्रीता भव सर्वदा ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः आवाहयामि ।
आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
बालाम्बिके महादेवि पूर्णचन्द्रनिभानने ।
सिंहासनमिदं देवि गृहाण सुरवन्दिते ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः रत्नसिंहासनं समर्पयामि ।
पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
सूर्यायुतनिभस्फूर्ते स्फुरद्रत्नविभूषिते ।
पाद्यं गृहाण देवेशि सर्वकल्याणकारिणि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां
ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
सुवासितजलं रम्यं कस्तूरीपङ्कमिश्रितम् ।
गन्धपुष्पाक्षतैर्युक्तं अर्घ्यं दास्यामि सुन्दरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः हस्तयोरर्घ्यं समर्पयामि ।
आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-
-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
सुवर्णकलशानीतं चन्दनागरुसम्युतम् ।
गृहाणाचमनं देवि मया दत्तं सुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मुखे आचमनीयं समर्पयामि ।
पञ्चामृतस्नानम् –
मध्वाज्य दधि सम्युक्तं शर्करा क्षीर मिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण परमेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पञ्चामृतस्नानं समर्पयामि ।
शुद्धोदकस्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो
वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु
मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
गङ्गाजलं मयानीतं महादेवशिरःस्थितम् ।
शुद्धोदकस्नानमिदं गृहाण परमेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः शुद्धोदकस्नानं समर्पयामि ।
स्नानानन्तरं आचमनं समर्पयामि ।
वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः
की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन्
की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
सुरार्चिताङ्घ्रियुगले दुकूलवसनप्रिये ।
वस्त्रयुग्मं प्रदास्यामि गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि ।
कञ्चुकम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
स्वर्णतन्तु समुद्भूतं रक्तवर्णेन शोभितम् ।
भक्त्या दत्तं मया देवि कञ्चुकं परिगृह्यताम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः कञ्चुकं समर्पयामि ।
गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
कर्पूरागरुकस्तूरीरोचनादिसुसम्युतम् ।
अष्टगन्धं प्रदास्यामि स्वीकुरुष्व शुभप्रदे ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गन्धं समर्पयामि ।
हरिद्राकुङ्कुमम् –
हरिद्रा शुभदा चैव स्त्रीणां सौभाग्यदायिनी ।
कुङ्कुमं च मया दत्तं गृहाण सुरवन्दिते ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः हरिद्राकुङ्कुमं समर्पयामि ।
माङ्गल्यम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
शुद्धस्वर्णकृतं देवि माङ्गल्यं मङ्गलप्रदम् ।
सर्वमङ्गलमाङ्गल्यं गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मङ्गलसूत्रं समर्पयामि ।
पुष्पाणि –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
मल्लिकाजातिकुसुमैश्चम्पकैर्वकुलैरपि ।
शतपत्रैश्च कल्हारैः पूजयामि वरप्रदे ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पुष्पाणि समर्पयामि ।
अथ अष्टोत्तरशतनाम पूजा –
श्री बाला अष्टोत्तरशतनामावली
पश्यतु ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः अष्टोत्तरशतनामपूजां समर्पयामि ।
धूपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् ।
धूपं दास्यामि देवेशि गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः धूपं आघ्रापयामि ।
दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
घृतवर्तिसमायुक्तं अन्धकारविनाशकम् ।
दीपं दास्यामि वरदे गृहाण मुदिता भव ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः दीपं दर्शयामि ।
धूपदीपानन्तरं आचयनीयं समर्पयामि ।
नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसम्युतम् ।
नानाभक्ष्यफलोपेतं गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः नैवेद्यं समर्पयामि ।
ताम्बूलम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
एलालवङ्ग सम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सग्ं सृ॒जामसि ।
नीराजनं मयानीतं कर्पूरेण समन्वितम् ।
तुभ्यं दास्याम्यहं देवि गृह्यतां त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः कर्पूरनीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
मन्त्रपुष्पम् –
ओं ऐं ह्रीं श्रीं बालायै नमः ।
क्लीं त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ने प्रचोदयात् ॥
वाग्देवि वरदे देवि चन्द्ररेखासमन्विते ।
मन्त्रपुष्पमिदं भक्त्या स्वीकुरुष्व मयार्पितम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष दयामयि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः प्रदक्षिणनमस्कारान् समर्पयामि ।
राज्ञ्योपचाराः –
ओं श्रीबालात्रिपुरसुन्दर्यै नमः छत्रं आच्छादयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः चामरैर्वीजयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः नृत्यं दर्शयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गीतं श्रावयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः आन्दोलिकानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः अश्वानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गजानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
प्रार्थना –
अरूणकिरणजालैरञ्चिताशावकाशा
विधृतजपपटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकल्हारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥
क्षमा प्रार्थना –
ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे ।
बाल कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ॥
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री बाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री बाला देवी पादोदकं पावनं शुभम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.